चक्षुष्यम् - 
 
* चक्षुषे हितं यत् तत् चक्षुष्यम् । यथा मांसरसः । मधुरं शीतं स्निग्धं च द्रव्यं प्रायः चक्षुष्यं भवति । तत् रसादिधातुपोषकत्वात् ओजोधातुवर्धकत्वात् तथा च प्रभावेण नेत्रेंद्रियपोषकत्वात् च चक्षुष्यं भवति । यथा  जीवकं मधुकं मृद्विका घृतं च चक्षुष्याणि भवन्ति । हरीतकी आमलकी बिभीतकचोपि चक्षुष्याणि भवन्ति । किन्तु तानि कषायरसत्वात् मांसदाश्रितं क्लेदं अपहृत्य चक्षुष्याणि भवन्ति ।
		
喜欢
			
			 评论 		
	
					 分享				
						