श्वासहराणि -- उरःस्थानगतान् कफादिदोषान् श्वासहराणि द्रव्याणि घ्नन्ति । तथा प्राणं चानुलोमयन्ति । यथा तुलसी , भार्गी , लवंगं , शठी , भूम्यामलकी , पुष्करमूलं , दशमूलं , देवदारुः , हिंगु , मातुलुंगं च । शठीपुष्करमूलान्लवेतसैलाहिंग्वगुरुमुरतामलकी जीवन्तीचंडा इति दशेमानि “ श्वासहराणि भवन्ति । च . सू . ४
अर्शोघ्नानि अनुप्रेमनं कृत्वा कानिचिद् द्रव्याणि अर्शोघ्नानि भवन्ति । यथा- एरंडः , हरीतकी , चिरबिल्वः । कानिचिय अग्रेः दीपनं कृत्वा अर्शोघ्नानि भवन्ति । यथा नागकेसर , सूरणः ॥ कानिचिद् द्रव्याणि रसवहस्रोतसां विशोधनं कृत्वा अर्शोघ्नानि भवन्ति । यथा , चित्रकः , भल्लातक : वत्सकञ्च । कुटजबिल्बचित्रकनागरातिविषाभयाधन्वयासकदा रुहरिद्रावचाचव्यानीति दशे मानि अर्शोघ्नानि भवन्ति । च . सू . ४ ( 56 ) T