कासहराणि - कासहराणि द्रव्याणि कण्ठगतान् वातादिकान् दोषान् तथा प्रदुष्टं प्राणं उदानं च शमयन्ति । यथा कर्कटशृंगी , शुं ठी , गुडूची , कंटकारी , पिप्पली भार्गी च वातजकासं इन्ति । सिता , धात्री , द्राक्षा , वासा मधुकं धन्वयासश्च पित्तज़कास जयति । पिप्पली , पिप्पलीमूलं , मरिचं , अगुरुः , बृहती , विमीतकः , शुण्ठी , देवदारुः , कासमर्द :, हिज्जलश्च कफजकासं हन्ति । लाक्षा , वंशलोचना , मधुयष्टी , बला च क्षतजकासं , क्षयजकासं च इन्ति । “ द्राक्षाभयामलकपिप्पलीदुरालभाशंगीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति । च . सू . ४
Beğen
Yorum Yap
Paylaş